|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.202. अध्यायः 202
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
युधिष्ठिरेण भीष्मंप्रति सप्रशंसनं पुनर्धर्मकथनप्रार्थना॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
वैशम्पायन* उवाच।
अनुशास्य शुभैर्वाक्यैर्भीष्ममाह महामतिः।
प्रीत्या पुनः स शुश्रूषुर्वचनं यद्युधिष्ठिरः॥ 13-202-1(89184)
जनमेजय उवाच। 13-202-2x(7439)
पितामहो मे विप्रर्षे भीष्मं कालवशं गतम्।
किमपृच्छत्तदा राजा सर्वसामाजिकं हितम्॥ 13-202-2(89185)
उभयोर्लोकयोर्युक्तं पुरुषार्थमनुत्तमम्।
तन्मे वद महाप्राज्ञ श्रोतुं कौतूहलं हि मे॥ 13-202-3(89186)
वैशम्पायन उवाच। 13-202-4x(7440)
भूय एव महाराज शृणु धर्मसमुच्चयम्।
यदपृच्छत्तदा राजा कुन्तीपुत्रो युधिष्ठिरः॥ 13-202-4(89187)
शरतल्पगतं भीष्मं सर्वपार्थिवसन्निधौ।
अजातशत्रुः प्रीतात्मा पुनरेवाभ्यभाषत॥ 13-202-5(89188)
पितामह महाप्राज्ञ सर्वशास्त्रविशारदः।
श्रूयतां मे हि वचनमर्थित्वात्प्रब्रवीम्यहम्॥ 13-202-6(89189)
परावरज्ञो भूतानां दयावान्सर्वजन्तुषु।
आगमैर्बहुभिः प्रीतो भवान्नः परमं कुले॥ 13-202-7(89190)
त्वादृशो दुर्लभो लोके साम्प्रतं ज्ञानसंयुतः।
भवता गुरुणा चैव धन्याश्चैव वयं प्रभो॥ 13-202-8(89191)
अयं स कालः सम्प्राप्तो दुर्लभैर्ज्ञातिबान्धवैः।
शास्ता तु नास्ति नः कश्चित्त्वदृते पुरुषर्षभ॥ 13-202-9(89192)
तस्माद्धर्मार्थसहितमायत्यां च हितोदयम्।
आश्चर्यं परमं वाक्यं श्रोतुमिच्छामि भारत॥ 13-202-10(89193)
अयं नारायणः श्रीमन्सर्वपार्थिवसन्निधौ।
भवन्तं बहुमानाच्च प्रणयाच्चैव सेवते॥ 13-202-11(89194)
अस्यैव तु समक्षं नः पार्तिवानां तथैव च।
इतिवृत्तं पुराणं च श्रोतॄणां परमं हितम्॥ 13-202-12(89195)
यदि तेऽहमनुग्राह्यो भ्रातृभिः सहितोऽनघ।
मत्प्रियार्थं हि कौरव्य स्नेहाद्भाषितुमर्हसि॥ 13-202-13(89196)
वैशम्पायन उवाच। 13-202-14x(7441)
तस्य तद्वचनं श्रुत्वा स्नेहादागतविक्लवः।
प्रविबन्निव तं दृष्ट्वा भीष्मो वचनमब्रवीत्॥ 13-202-14(89197)
शृणु राजन्पुरावृत्तिमितिहासं पुरातनम्।
एतावदुक्त्वा गाङ्गेयः प्रणम्य शिरसा हरिम्।
धर्मराजं समीक्ष्येदं पुनर्वक्तुं समारभत्॥ ॥ 13-202-15(89198)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्व्यधिकद्विशततमोऽध्यायः॥ 202 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-202-1x * एकोत्तरद्विशततमाध्यायात्परं एकपञ्चाशदधिकद्विशततमाद्यायात्पूर्वं मध्ये परिदृश्यमानैकोनपञ्चाशदध्यायप्रतिनिधितया औत्तराहकोशे अष्टावेवाध्यायाः परिदृश्यन्ते। तेचानुपूर्वीभेदेन तदर्थैकदेशप्रतिपादकाएव दृश्यन्ते नतु तदनुक्तार्थप्रतिपादकाः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|